
वेदान्तसम्प्रदायेषु अद्वैतवादस्य प्रसिद्धि: सर्वत्र परिदृश्यते यतो हि लोके वेदान्तपदेन अद्वैतमिति बोध्यते। अस्य अद्वैतवादस्य प्रतिष्ठाता श्रीमच्छङ्कराचार्यः। तेन सकलमद्वैततत्त्वम् अवबोधाय संक्षेपेण तत्वबोधग्रन्थः विरचितः। मानवजीवनस्य चरमलक्षमस्ति मोक्षः अपवर्गः वा। एतस्य प्राप्तिः ब्रह्मोपासनया भवतीति उपनिषत्प्रमाणम्। सच्चिदानन्दं निराकारं भवति ब्रह्म। तस्य स्वस्य न कोऽपि शक्तिरस्ति। अतः तमुच्यते निर्गुणं ब्रह्मेति। किन्तु मायोपाधियुक्तं सन् सगुणंब्रह्मेते ईश्वरेति वा सम्भोध्यते। केवलं जगतोत्पन्नमिच्छया तथा "एकोऽहं बहुस्याम्" इति भावनया सः चतुर्दशभूवनं, चतुर्विधं भूतशरीरं च निर्माति। अतः जायमानस्य जगतः निमित्तकारणं तथा च उपादानकारणमस्ति ब्रह्म। शोधप्रबन्धेऽस्मिन् ब्रह्मणः स्वरूपं तथा च तस्मात् खिलसृष्टिं कथं जायते इत्यादिविषयाः प्रतिपाद्यन्ते। अयं शोधविषय: पाठकानां गवेषकाणां च कृते अद्वैतवेदान्तस्य गवेषणा क्षेत्रे सहायकं भवतीति आशास्यते।
ब्रह्म:, आत्मा, माया, जगच्च।
ब्रह्म:, आत्मा, माया, जगच्च।
| selected citations These citations are derived from selected sources. This is an alternative to the "Influence" indicator, which also reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | 0 | |
| popularity This indicator reflects the "current" impact/attention (the "hype") of an article in the research community at large, based on the underlying citation network. | Average | |
| influence This indicator reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | Average | |
| impulse This indicator reflects the initial momentum of an article directly after its publication, based on the underlying citation network. | Average |
