Downloads provided by UsageCounts
अस्मिन्महनीये प्रपञ्चे पुरुषार्थचतुष्टयस्य साधकॊ मानवॊ भवति । मनुष्याणां शरीरे यथा हस्तपादादयॊ विविधान्यङ्गानि भवन्ति तद्वद् धर्मार्थकाममॊक्षाख्यचतुर्विधपुरुषार्थस्य प्रतिपादका वेदास्सन्ति । वेदा अपि अङ्गैरेव व्याक्रियन्ते अत एव चतुर्दशविद्यास्वङ्गानां चर्चा विद्यते । अङ्गशब्दस्य व्युत्पत्तिलभ्यॊऽर्थॊ भवति 'उपकारक' इति । तद्यथा ट्ट 'अङ्ग्यन्ते, ज्ञायन्ते अमीभिरिति अङ्गानि' । अत्रायमाशयः, यैः उपकरणैः कस्यापि वस्तुनः स्वरूपावगमने सहायतां प्राप्नॊति तानि अङ्गानि भवन्ति । वेदस्तु स्वयमेव दुर्बॊधः, दुरूहश्च विषयः भाषा-भावयॊर्द्वयॊरपि दृष्ट्या । निष्कर्षश्चात्रायं विद्यते यत्, वेदार्थज्ञाने तत्कर्मकाण्डस्य च प्रतिपादने च सक्षमं सार्थकं च यच्छास्त्रं तमेव विद्वांसॊ 'वेदाङ्ग' इति नाम्ना कथयन्ति, व्याहरन्ति च । तथा च वेदस्य, वेदार्थस्य च यथार्थ ज्ञानाय शिक्षादिषड्विषयान् सम्यगध्ययनस्य नितान्तं प्रयॊजनं विद्यते ।
समग्रेऽस्मिन् लेखने वेदस्यार्थगाम्भीर्य्ं, समुचितपदप्रयोगे पूर्वसूरिभिः कृतभूरिपरिश्रमः निरूपितो वर्तते। वेदावगमने वेदार्थावगमने वा उपकरणं विना न शक्यते इति निरूप्य उपकरणानि वेदाङ्गाङ्गानि प्रतिपादितानि। अङ्गं विना अङ्गिकल्पन यथा असम्भावितं तथा शिक्षादि शिक्षाद्यङ्गसाहाय्यं विना वेदः दुरूह्य एव स्यात्| अतः अङ्गभूतानि शिक्षादिषट् शास्त्राणि सप्रमाणं सलक्षणा निरूपितान्यत्र।अपि च पुराणादिविस्तृतवाङ्मयप्रपञ्चे षडङ्गानां परिचयः विवरणं च कुत्र उल्लिखितमिति च अत्र विवृतम्।
| selected citations These citations are derived from selected sources. This is an alternative to the "Influence" indicator, which also reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | 0 | |
| popularity This indicator reflects the "current" impact/attention (the "hype") of an article in the research community at large, based on the underlying citation network. | Average | |
| influence This indicator reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | Average | |
| impulse This indicator reflects the initial momentum of an article directly after its publication, based on the underlying citation network. | Average |
| views | 20 | |
| downloads | 14 |

Views provided by UsageCounts
Downloads provided by UsageCounts