Downloads provided by UsageCounts
अथ 'न जातु ज्योतिर्ज्योतिरन्तरा द्रष्टुं ज्ञातुं च शक्यत' इति तेजोमयो भगवानव्ययो मुक्तिमार्गो रविरीश्वरः तदंशका ज्योतिष्मन्तो ग्रहा वै वेदाश्व । चक्षुरूपज्योतिःशास्त्रं विना न केनापि शास्त्रेण ज्ञातुं शक्यन्त इति कथने न भवति काचिदपि वाच्यतेति । "दैवाधीनं जगत् सर्वम्" इति तथा 'ग्रहास्ते देवदांशकाः" इति वचनात् सकलं जगत् ग्रहाधेनमेवा वस्तुतो रविकिरणसंयोगवशादेव सकलं जगज्जातं जीवनं स्थैर्यं च वहतीति । यथा नहि नेत्रं विना कश्चिदपि जनो निरापदं स्वीयमाभिलषितं पदं गन्तुं पाश्येत्तथा ज्यौतिषशास्त्रं विना जगतः श्रेयोमार्गः कथमपि न सम्भवतीति । इदं शास्त्रं नान्यशास्त्रवत् सन्देहास्पदमप्रत्यक्षञ्च । नान्यत् किमपि शास्त्रं ज्योतिःशास्त्रवत् इदमेव तत्, इदानीमेव तत्, अत्रैव तत्, एतावदेव तत्, तदित्यादि प्रकटयितुं पारयेत् । इत्युक्तमपि तथा - अप्रत्यक्षाणि शास्त्राणि विवादस्तेषु केवलम् । प्रत्यक्षं ज्यौतिषं शास्त्रं चन्द्रार्कौ यत्र साक्षिणौ ॥ इह जगति सर्वेऽपि प्राणिनः कदाचित् उत्पद्यन्ते, कञ्चित् कालं तिष्ठन्ति, कदाचित् च म्रियन्ते इत्येषः अंशः सर्वेषाम् अनुभवसिद्धः । किमिदं जन्म भवति किमर्थं च मरणमिति ज्ञातुम् अशक्नुवन्तः ते निरुपायाः सन्तः पुनरपि तत्रैव जगति निमज्जन्ति। निमग्नाश्च आध्यात्मिक्यादि दुःखत्रयं यथापूर्वम् अनुभवन्ति । तदेवम् अन्धे तमसि वर्तमानानां तेषाम् उद्धाराय परमकारुणिकैः प्रदीपायमानं तावदिदं शास्त्रम् ज्योतिष्यशास्त्रम् ।
सुविदितमेव एतत् तत्रभवतां निखिलनिगमागमविधूतचेतसां विपश्चिदां यदिह जगति जनिमतां सर्वतः श्रेयोमार्गप्रदर्शको वेद् एव । नात्र कश्चिदपि विषयः अनुपलभ्यो यथातत्त्वेनान्वेषयतां सताम् । इदमेव शासनपद्धतिर्जगन्नियन्तुः सवितुरीश्वरस्यैतदर्थमेव सर्वतः प्रथमं मीनावतारोऽप्यङ्गीकृतो भगवतेति तज्ज्ञानप्रवर्तकानि तानि षडङ्गभूतानि शिक्षा-कल्प-व्याकरण-ज्योतिष-निरुक्त-छन्दःशास्त्राणि प्रवक्ष्यन्ते । तेषु षडङ्गॆषु तावत् ज्योतिःशास्त्रं दिक्-देश-काल-व्यञ्जकत्वेन यज्ञतपोदानव्रतोपवासादीनाम् आदिबीजमिति सकलशास्त्रोपेक्षया अस्य अध्ययन-अध्यापनादिकं अतीव आवश्यकम् । तस्मिन् महाशास्त्रे राजयोगमिति विषयमधिकृत्य किञ्चित् लेखितुम् इच्छामि ।
| selected citations These citations are derived from selected sources. This is an alternative to the "Influence" indicator, which also reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | 0 | |
| popularity This indicator reflects the "current" impact/attention (the "hype") of an article in the research community at large, based on the underlying citation network. | Average | |
| influence This indicator reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | Average | |
| impulse This indicator reflects the initial momentum of an article directly after its publication, based on the underlying citation network. | Average |
| views | 8 | |
| downloads | 16 |

Views provided by UsageCounts
Downloads provided by UsageCounts