Downloads provided by UsageCounts
भारतमाता शताधिकभाषाणां जन्मदात्री अस्ति । अत्र शताधिकभाषाः मातृभाषात्वेन विराजन्ते । तेषु संस्कृतभाषा अपि श्रेष्ठं स्थानमावहति । प्रपञ्चस्य प्राचीनसाहित्यं संस्कृतसाहित्यमिति तु लोकविदितमेव । अस्मिन् संस्कृतसाहित्ये बहुविधकृतयस्सन्ति । वेदसाहित्यादारभ्य अद्यतनीय नूतनकाव्यपर्यन्तं अनेककृतयो विराजमानस्सन्ति । काव्ये एव द्वैविध्यं द्रष्टुं शक्नुमः । ते श्रव्यं-दृश्यञ्चेति । श्रव्यकाव्ये विभागत्रयं गद्यं-पद्यं-चम्पूरिति । दृश्यकव्ये तु दशविधरूपकाणि । तथा वेदाः, उपनिषदः, स्मृतिः, इतिहासः, पुराणानि, इत्यादिबहुविधसाहित्यप्रकाराः दृश्यन्ते । एते सर्वेऽपि सहित्यप्रकारा भारतीयसंस्कृतिमेव प्रतिपादयन्तीति तु नास्ति संशयलेशोऽपि । भारतीयसंस्कृतसाहित्ये बहवोंऽशाः प्रतिपादिताः । तेषु विषयेष्वाश्रमचतुष्टयमप्यन्यतमम् । भारतीयानां जीवनशैली तु विशिष्टा श्रेष्ठा च । वैज्ञानिकीप्येषा जीवनशैली। अस्यां जीवनशैल्यां वयोनुगुणं काचिद्व्यवस्था कृता ज्येष्ठैः स्मृतिकारैः । तां व्यवस्थाम् 'आश्रम' इति पदेन व्यवहरन्ति । "शतायुर्वै पुरुषः" इति श्रुतिवाक्यत्वेन मानवस्य आयुः शतवर्षाणीति निर्णङ्कृतं बुधैः। किन्तु शतवर्षपर्यन्तं सर्वेऽपि न जीवन्ति । परन्तु सर्वेऽपि शतवर्षपर्यन्तं जिजीविशेयुरिय्ताशास्तत्र । अतैवैतच्छतवर्षात्मकमानवजीवञ्चतुर्धाविभक्तम् । ते चत्वारो विभागा आश्रमपदत्वेन प्रसिद्धाः।
भारतीयसंस्कृतसाहित्ये बहवोंऽशाः प्रतिपादिताः । तेषु विषयेष्वाश्रमचतुष्टयमप्यन्यतमम् । भारतीयानां जीवनशैली तु विशिष्टा श्रेष्ठा च । वैज्ञानिकीप्येषा जीवनशैली। अस्यां जीवनशैल्यां वयोनुगुणं काचिद्व्यवस्था कृता ज्येष्ठैः स्मृतिकारैः । तां व्यवस्थाम् ‘आश्रम’ इति पदेन व्यवहरन्ति । “शतायुर्वै पुरुषः” इति श्रुतिवाक्यत्वेन मानवस्य आयुः शतवर्षाणीति निर्णङ्कृतं बुधैः। किन्तु शतवर्षपर्यन्तं सर्वेऽपि न जीवन्ति । परन्तु सर्वेऽपि शतवर्षपर्यन्तं जिजीविशेयुरिय्ताशास्तत्र । अतैवैतच्छतवर्षात्मकमानवजीवञ्चतुर्धाविभक्तम् । ते चत्वारो विभागा आश्रमपदत्वेन प्रसिद्धाः।
| selected citations These citations are derived from selected sources. This is an alternative to the "Influence" indicator, which also reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | 0 | |
| popularity This indicator reflects the "current" impact/attention (the "hype") of an article in the research community at large, based on the underlying citation network. | Average | |
| influence This indicator reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | Average | |
| impulse This indicator reflects the initial momentum of an article directly after its publication, based on the underlying citation network. | Average |
| views | 6 | |
| downloads | 7 |

Views provided by UsageCounts
Downloads provided by UsageCounts