Downloads provided by UsageCounts
श्रीमद्भागवतं पुराणगणेषु प्रथमं स्थानमलङ्करोतीति तु सर्वविदितमेवेदम् । पुराणानि त्वष्टादशात्यन्तं प्रसिद्धानि । तानि तु चेतराणि पुराणानि नानाविषयोपनिबद्धानि च सन्ति । श्रीमद्भागवतन्तु भगवत्परकमेवास्ति ,भगवतः कथाभिर्भगवद्भक्तमाहात्म्येन च । तस्मादेवोक्तं पुराणान्तरेषु , कालव्यालमुखालीढजगत्त्राणविधायकम् । श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम् ॥ इति समयः सर्पवत् ।स्वस्य मुखेन जगदालीढमामग्नं वा करिष्यति । एतेन क्रमेण समयसर्पमुखेन दंशितं लोकं रक्षतीदं पुराणम् । कालस्तु नित्यं चलति । गमनशीलोऽयं कालः, स्वविषोल्बणं अन्यशरीरं यथा विधास्यति , तथायं स्वचङ्क्रमणेन जगदेव निगरति । तेन त्राणार्थं श्रीमद्भागवतं भगवता वेदव्यासेन विरचितम् । तस्माद्भागवतम् अमृतद्रवसंयुतं फलमिव । तत्फलं गळितं [पतितं] कल्पवृक्षात् । स च कल्पवृक्षस्तु निगमः । चिन्तितं फलं प्रदिशतीति हेतोः कल्पवृक्षस्य कल्पवृक्ष इति नाम । निगमस्तु कल्पवृक्ष इव सर्वैरपेक्षितं फलं सुखं वा दत्ते इति कारणतः कल्पतरोः दृष्टान्तोऽत्र । निगमानामध्ययनेन, अभ्यासेन, नियततया पठनेन च सर्वे नराः स्वाभीष्टं प्राप्नुवन्ति । मोक्षादिशाश्वतसुखप्राप्त्यर्थञ्च निगमाः अवश्यमध्येतव्याः । यथा निगमाध्ययनं मोक्षादिफलदानसमर्थं तथा तस्य निगमस्य साररूपं, फलरूपञ्च श्रीमद्भागवतम् अधेतॄणां सर्वाभीष्टदायि । भगवतोऽतिशयानुग्रह-कारणीभूतञ्च । तस्मादेव तत्फलरूपं श्रीमद्भागवतं पीयूषरससम्भृतञ्चेति पुराणज्ञानां मतम् । तत्फलं पीयूषरससम्भृतं , मरणपर्यन्तमपि, सर्वैः सुध्येयमिति तु तज्ज्ञानामभिप्रायः । तत्पानयोग्या रसिकाः, भावुकाश्च । तैश्च क्रियासमभिहारेण तत्राध्ययने प्रयत्नः करणीय इति तु सिद्धमिदम् ॥
तत्फलं गळितं [पतितं] कल्पवृक्षात् । स च कल्पवृक्षस्तु निगमः । चिन्तितं फलं प्रदिशतीति हेतोः कल्पवृक्षस्य कल्पवृक्ष इति नाम । निगमस्तु कल्पवृक्ष इव सर्वैरपेक्षितं फलं सुखं वा दत्ते इति कारणतः कल्पतरोः दृष्टान्तोऽत्र । निगमानामध्ययनेन, अभ्यासेन, नियततया पठनेन च सर्वे नराः स्वाभीष्टं प्राप्नुवन्ति । मोक्षादिशाश्वतसुखप्राप्त्यर्थञ्च निगमाः अवश्यमध्येतव्याः । यथा निगमाध्ययनं मोक्षादिफलदानसमर्थं तथा तस्य निगमस्य साररूपं, फलरूपञ्च श्रीमद्भागवतम् अधेतॄणां सर्वाभीष्टदायि । भगवतोऽतिशयानुग्रहकारणीभूतञ्च । तस्मादेव तत्फलरूपं श्रीमद्भागवतं पीयूषरससम्भृतञ्चेति पुराणज्ञानां मतम् । तत्फलं पीयूषरससम्भृतं , मरणपर्यन्तमपि, सर्वैः सुध्येयमिति तु तज्ज्ञानामभिप्रायः ।
| selected citations These citations are derived from selected sources. This is an alternative to the "Influence" indicator, which also reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | 0 | |
| popularity This indicator reflects the "current" impact/attention (the "hype") of an article in the research community at large, based on the underlying citation network. | Average | |
| influence This indicator reflects the overall/total impact of an article in the research community at large, based on the underlying citation network (diachronically). | Average | |
| impulse This indicator reflects the initial momentum of an article directly after its publication, based on the underlying citation network. | Average |
| views | 5 | |
| downloads | 7 |

Views provided by UsageCounts
Downloads provided by UsageCounts