Powered by OpenAIRE graph
Found an issue? Give us feedback
image/svg+xml art designer at PLoS, modified by Wikipedia users Nina, Beao, JakobVoss, and AnonMoos Open Access logo, converted into svg, designed by PLoS. This version with transparent background. http://commons.wikimedia.org/wiki/File:Open_Access_logo_PLoS_white.svg art designer at PLoS, modified by Wikipedia users Nina, Beao, JakobVoss, and AnonMoos http://www.plos.org/ ZENODOarrow_drop_down
image/svg+xml art designer at PLoS, modified by Wikipedia users Nina, Beao, JakobVoss, and AnonMoos Open Access logo, converted into svg, designed by PLoS. This version with transparent background. http://commons.wikimedia.org/wiki/File:Open_Access_logo_PLoS_white.svg art designer at PLoS, modified by Wikipedia users Nina, Beao, JakobVoss, and AnonMoos http://www.plos.org/
ZENODO
Article
Data sources: ZENODO
addClaim

संस्कृतसाहित्ये मानवतावादस्य परिशीलनम्

Authors: prativa dash;

संस्कृतसाहित्ये मानवतावादस्य परिशीलनम्

Abstract

संस्कृतसाहित्ये मानवतावादस्य परिशीलनम् प्रतिभा दश शोधछात्रा, संस्कृत विभाग, महाराजा श्रीरामचन्द्र भजं देओ विश्वविद्यालय, केंदुझर परिसर, ओड़िशा संस्कृतवाक्यम् अतीव विशालं भवति । वैदिकलौकिकञ्चेति संस्कृतवाक्यं द्विधा विभज्यते। तत्र आदिकवेर्वाल्मीकेः रामायणम् आदिकाव्यं वाल्मीकिस्तु संस्कृतस्य आदकविरिति जानन्ति सर्वे। तत्र वैदिके लौकिके च संस्कृते नैकानि काव्यतत्त्वानि, जीवनस्य रसस्यानि, तथ्यानि, कलाः, विज्ञानानि च संविलोक्यन्ते। अपि तु यदि सूक्ष्मं विचारयामस्तर्हि तस्मिन् संस्कृतसाहित्ये नैकेषु काव्येषु रामायणमहाभारतपुराणसाहित्यादिषु मानवतावादस्य विषयः सुस्पष्टरूपेण विचारितास्सन्ति। अस्माभिः मानवतावादस्यार्थोऽपि साक्षात् वक्तुं शक्यते यत् मानवस्य धर्मः इति। अर्थात् यत्र मानवः स्वीयसमुचितकर्मण अनुसारं जीवने अग्रे गच्छति, अन्यायाधर्मादिकं च नैव आश्रियते स एव मानवतावाद इति वक्तुं शक्यते। तदुपरि केचन विचाराः पत्रेऽस्मिन् विधीयन्ते । शोधपत्रस्योद्देश्यम् अस्माकमेतत् शोधपत्रं संस्कृतवाक्ये मानवतावादस्योपरि विलसति । अर्थात् मनुष्यैः सर्वैरपि किं किं सदाचारेण परिपालनीयम्। किं कर्तव्यं, किं वा च कर्तव्यमिति मानवतावादस्य विषयं सूचयति । यद्यपि मानवतावादस्योपरि नैके विचारास्सन्ति, तथापि शोधपत्रेऽस्मिन् तस्य मानवतावादस्य विषये चर्चा शोधपत्रेऽस्मिन् सोदाहरणं निरूपयिष्यते। तदेव शोधपत्रस्यास्य उद्देश्यम् । यदि विचार्यते तर्हि निश्चप्रचं वक्तुं शक्यते यत् वेद्रे-ब्राहाणग्रन्थे- आरण्यके उपनिषत्सु रामायणे- महाभारते-पुराणेषु-स्मृतिग्रन्थेषु -हितोपदेशे - पञ्चतन्त्रे-नीतिशतकादिषु सर्वत्रापि मानवतावादस्य विषये नैके विचाराः परिलक्ष्यन्ते । तदेव शोधपत्रेऽस्मिन् स्थालीपूलाकन्यायेन क्वचित् निरूपयिष्यते । मानवतावादस्यार्थः मानवस्य भावः मानवता। वदति इति वादः। मानवतायाः वादः मानवतावादः । अर्थात् यः मानवस्य साक्षात् धर्मः सैव मानवतावाद इत्येव वक्तुं शक्यते। मनुस्मृतौ भगवता मनुना धर्मस्य लक्षणं विधाय मानवतावादस्य विषयः क्वचित् स्पृष्टः । उक्तं यथा तत्र द्वितीयाध्याये - वेदः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । एतच्चतुर्विधं प्राहुः साक्षाद्धर्मस्य लक्षणम् ।।' तर्हि तत्तत् ग्रन्थेषु निरूपितानां मानवीयधर्माणां विषयं यः वदति, स एव मानवतावाद इत्यर्थः। अर्थात् अस्माभिः सर्वैरपि वेदस्य, स्मृतेश्च वचनं परिपालनीयम् । तथा सततं सदाचारेण वर्तितव्यमिति । येन समुचितमानवसमाजस्य निर्माण सहायको भवति । मानवतावादञ्च समर्थयति । संस्कृतसाहित्ये मानवतावादस्य विचारः वाल्मीकिरामायणे नैकेषु काण्डेषु मानवतावादस्य विचारः महकविना विहितः । तत्र भगवान् श्रीरामः आदर्शराजारूपेण, सीतायाः पतिरूपेण, लवकुशयोः पितारूपेण, भरतलक्ष्मणयोः भ्रातारूपेण, अनेकेषां ऋषीणां आज्ञावहादर्शसेवकरूपेण, रात्रसानां रावणादीनां योद्धारूपेण चित्रितः। भगवतः रामचन्द्रस्य भ्रातृप्रेम अतीव महत्स्थानमावहति । अमृतस्वरूपस्य सच्चिदानन्दस्य अद्वितीयस्य परमात्मनः पुत्राः वयम्। सर्वेषामस्माकं परमपिता एक एव। सर्वे वयं भ्रातरः भगिन्यश्च । तर्हि भ्रातृभिः सह वैरता कथम् ? परन्तु रामायणे दशरथपुत्राणां परस्परं वैरभावः कुत्रापि नैव वर्णितः । तदेव मानवतावादस्य समीचीनः दृष्टान्तः। तत्र रामायणे लक्ष्मणस्य योगदानं श्रीरामोपरि बहुधासीत्। यदा लक्ष्मणस्य शक्तिभेदः सञ्जातः तदा तस्य भ्रातृत्वं स्मृत्वा श्रीरामेणोक्तं यत् - देशे देशे कलत्राणि देशे देशे च बान्धवाः । तं तु देशं न पश्यामि यत्र भ्राता सहोदरः ।।' कलियुगेऽस्मिन् एकस्मिन् परिवारे भ्रातृभ्यः परस्परं कलहः जायते विविधकारणैः । परन्तु रामायणे द्रष्टव्यमस्ति यत् ज्येष्ठस्य भ्रातुरुपरि कनिष्ठस्य तथा कनिष्ठस्य भ्रातुरूपरि ज्येष्ठस्य यः भावः, भक्तिः स्नेहः वर्तते स तु मानवातावादस्य सर्वश्रेष्ठद्दृष्टान्तरूपेण अस्माभिः स्वीकर्तुं शक्यते। तत्र लक्ष्मण इव भ्राता यत्र वर्तते तादृशं देशं द्रष्टुं नाहं शक्नोमीति रामस्योक्तिः । यत्र मानवतावादस्य सङ्केतो परिलक्ष्यते ।

Powered by OpenAIRE graph
Found an issue? Give us feedback