
भारतीयज्ञानपरम्परायाम् उपनिषदः महत्वपूर्णं स्थानं वर्त्तते । कृष्णयजुर्वेदस्य अर्वाचिनेषु उपनिषत्सु गर्भोपनिषद् स्वतन्त्रस्थानमलंक्रियते। मातृगर्भे स्थिते काले जीवस्य जन्मवृत्तान्तम्, शारीरिकसंरचना तथा स्त्रीपुरुषमिथुनात् कथं नवपिण्डस्य निर्माणं भवति एतद् सर्वं तत्त्वं केवलं गर्भोपनिषदि परिलक्षते नान्यत्र । महर्षिणा पिप्पलादेन गर्भसंरचनायाः रहस्यं मन्त्रब्राह्मणात्मकरूपेण गुरुशिष्याद्याख्यायिकां विना द्वाविंशतिमन्त्रैः प्रतिपाद्यते अत्र । अस्या उपनिषदः रचनाकालः खी.पू.द्विसहस्त्रंवर्षम्। सन्तानोत्पन्नाय यत् समयः प्रजापतिना व्यवस्थितः तदा स्त्रीपुरुषयोः मिलनेन गर्भः समुत्पद्यते। स्त्रीजठरे गर्भस्थापनादारभ्यः प्रसवकालं यावत् सर्वं वृत्तान्तं वर्णितमस्ति। अष्टमे मासे गर्भस्थशिशोः शारीरिकमभिबृद्धिं सम्पूर्णं भवति। नवमे मासे तस्य बौद्धिकविकाशं जायते । तस्मिन् काले गर्भस्थशिशुः पूर्वजन्मवृतान्तं स्मरति । नवममासे मातुः शारीरिकमानसिकक्रियाणां प्रभावेन जठरस्थशिशुः प्रभावितं भवति। शरीरसरंचना, पुत्र-कन्या-नपुंसकादिसन्तानोत्पन्नस्य कारणं तथा अन्धादिविकारस्य दोषविषये च प्रतिपाद्यन्ते शोधप्रबन्धेऽस्मिन्। "गर्भोपनिषदि गर्भतत्त्वम्-एकमध्ययनम्" इति विषयोऽयं गवेषकाणां कृते गर्भविषयकमनुसन्धानक्षेत्रे सहायकं भवतीति आशास्यते।
