
जीवस्य लक्षणं किम्? समवायेन सम्बन्धेन जन्यज्ञानाधिकरणत्वं जीवत्वमिति जीवस्य लक्षणम् अथवा ईश्वरभिन्नत्वे सति चेतानत्वं जीवात्मनो लक्षणम्। अर्थात् परमात्मानः जीवात्मा भिन्नं भवति एवं च ज्ञानं अनन्तकालपर्यन्तं जीवात्मनि तिष्ठति। जीवस्तु प्रतिशरीरे भिन्नो विभुर्नित्यश्च । स सर्वमूर्तद्रव्यस्य संयोगी भबति।अतः स वीभुः। अस्य उत्पत्तिविनाशख्च न भवति। अतः स अनादिनित्यरूपेण प्रतिभाति। किन्तु यस्मिन् शरीरे जीवात्मा तिष्ठति तस्य शरीरस्य विनाशं भवति न तु आत्मनः। देहस्य नाशं दृष्टवा केचित् तं नाशवान्तुं मन्यते। अतः लोके जीवो जायते म्रियते चेति व्यवहारः। वस्तुतः जीवस्य देहेन सह उत्पत्तिविकासविषयकमौपचारिकमिति भवति । पदार्थज्ञानाभावात् इदं मम गृहम्, इदं मम शरीरम्, इदं मम इन्द्रियाणि, इदं मम ममः इत्यादिव्यबहारैः न्यायवैशेषिकदर्शनतत्वमनभिजज्ञः जनः जीवात्मनं गृहशरीरेन्द्रियमनोभ्यः भिन्नः।
