
भारतीयदर्शनसाहित्यस्य प्रवेशद्वारमिव न्यायदर्शनमस्ति। सर्वासु विद्यासु न्यायशास्त्रं प्रदीप इव भासते। एवं च सर्वेषां धर्माणाम् आश्रयदातास्ति। 'न्यायः' इति शब्दः नि-उपसर्गपूर्वकात् 'इण् गती' धातोः घञ्र्-प्रत्ययेन सिद्ध्यति। 'नियन्ति अस्मिन्निति न्यायः'। तथा च प्रमाणरर्थपरीक्षणं न्यायः। प्रत्यक्षागमाश्रितमनुमानं साऽन्वीक्षा। प्रत्यक्षामाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा तया प्रवर्तते इत्यन्वीक्षिकी न्यायविद्या न्यायशास्त्रमिति न्यायभाष्यकारेण वास्त्यायनेन उक्तम्। अर्थात् यस्मिन् शास्त्रे प्रमाणमाध्यमेन अर्थपरीक्षणं भवति तद् न्यायशास्त्रम्। तस्य ज्ञानं बिना संस्कृतसाहित्यस्योज्चतराणां ग्रन्थानां यथार्थतया अवबोधं न भवितुमर्हति। अतः उच्यते यत्- 'कणादं पाणिनीयञ्च सर्वशास्त्रोपकारकम्। परमकारुणिको भगवान् महर्षिः गौतमः विद्याशिरोरत्रभूतः संसाराङगारेषु पच्यमानात् समुद्दिधीर्षु सकलविद्याशिरोरत्भूतामान्वीक्षिकीं प्रणीतवान्। तस्य प्रणीतं सूत्राणामाशयावगन्तुम् अनेकाः नैयायिका: विविधानि ग्रन्थरत्नानि विरचितानि एवं च विविधानि मतानि स्थापितानि। तेषु केशवमिश्रः न्यायसूत्रस्य आशयं संक्षेपेण अवगमयितुं वृत्तिस्वरूपेण 'गौतमीयसूत्रप्रकाशः' इति ग्रन्थं विरचितवान्। षोडषपदार्थस्य आलोचनामत्र सुन्दरतया प्रतिपाद्यते। प्रमाणादिषोडशपदार्थानां तत्त्वज्ञानेन मोक्षप्राप्तिर्भवति। मानाधीनां मेयसिद्धि: इति नियमानुसारं प्रमाणस्य प्रतिपादनं सर्वादी भवति। प्रमाणेन सांसारिकाणां पदार्थानां यथार्थस्वरूपज्ञानं भवति। प्रमाणमस्ति चतुर्विधम्। यथा- प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्दश्व्। इन्द्रियाणां सन्निकर्षेण यं ज्ञानमुत्पद्यते तद् प्रत्यक्षप्रमाणस्य विषयः अस्ति। अतिन्द्रियविषयाणां ज्ञानं लिङ्गलिङि्गिज्ञानः अनुमानेन जायेते। साधर्म्यपदार्थानां ज्ञानमुपमानेन सिद्ध्यते। प्रत्यक्ष-अनुमान-उपमानैः त्रिविधैः प्रमाण: यस्य पदार्थस्य सिद्धिं न भवति तस्य सिद्धि: जायते शब्दप्रमाणेन। शास्त्रादिवाक्यैः मुनिऋष्याद्याप्तानां वचनै: येषां वस्तुनां पदार्थानां वा सिद्धि: जायते तदस्ति शब्दप्रमाणम्। केशवमिश्रप्रणीते गौतमीयसूत्रप्रकाशे प्रामाण्यवाद: इति शोधप्रबन्धे प्रमाणस्य प्रयोजनम्, तस्य निर्वचनम्, तस्य विभाजनम्, प्रमाणविषये केशवमिश्रस्य मतमुपस्थापनं पूर्वकम् अन्येषां नैयायिकानां मतमपि च प्रतिपाद्यन्ते। अयं शोधविषय: गवेषकाणां पाठकानां कृते च सहायकं भविष्यति। एतद् सहितं प्रत्येकपदार्थानां वास्तविकस्वरुपज्ञानमपि भवतीति आशास्यते।
