
शोधसार:धर्माथकाममोक्षेषु चतुवर्गेषु परमपुरुषार्थ मोक्षं प्राप्तये जीवः नानाप्रयत्नान् करोति। मिथ्याज्ञानेन आवृत्तः सन् सर्वे प्राणिनः जीवनस्य श्रेष्ठलक्षं विहाय विषयगतसुखाय सर्वविधप्रचेष्ठां कुर्वन्ति। किन्तु तैः क्षणिकसुखादनन्तरं दुःखं प्राप्यते। आध्यात्मिक-आधिदैविक-आधिभौतिकदुखेभ्यः निवृत्त्यर्थ, सांसारिक- वन्धनात् मुक्तये, प्रेत्यभावाभावाय च गौतमीयसूत्रप्रकाशे अनेकानि उपायानि वर्णितानि सन्ति। तर्काचार्यवेदान्तव्यासश्रीकेशवमिश्रेण न्यायसूत्राणामाशयं संक्षेपेण अववोधाय वृत्त्यात्मकोऽयं ग्रन्थः विरचितः। लोके प्रयोजनमनुद्दिश्य मन्दोऽपि न प्रवर्तते इति दृष्टान्तानुसारमस्य शास्त्रस्य प्रयोजनमस्तिमोक्षप्राप्तिः। प्रमाणप्रमेयादिषोडशपदार्थानां तत्त्वज्ञानेन अपवर्गस्य प्राप्तिर्भवतीति निश्रेयसपदेन सूत्रकारेण सूचितम्। श्रीकेशवमिश्रेण द्वीविधं निश्रेयसं स्वीक्रियते। परा अपरा च। परामोक्षस्य प्राप्ति: प्रमेयभिन्नप्रमाणादिपञ्चदशपदार्थानां तत्त्वज्ञानेन भवति। अपरामोक्षस्य प्राप्ति: आत्मेन्द्रियादिद्वादशप्रमेयानां यथार्थज्ञानेन भवति। षोडशपदार्थनां चरमतत्वज्ञानवन्तं पुरुषं जीवनमुक्तः इति कथ्यते। अस्मिन् जन्मनि संसारे जीवनमुक्त: पुरुषः प्रारब्धकर्मफलस्य भोगं करोति। तत्पश्चात् स देहत्यागं करोति। तेषु कश्चन पुरुषः स्व योगवलेन कायव्युहस्य निर्माणं कृत्वा अनेकेषु स्थानेषु नानाशरीरनिर्माणपूर्वकं स्वल्पसमयेन प्रारब्धकर्मफलस्य भोगं कृत्वा निर्वाणं प्राप्यते। तथा च कश्चन परमेश्वरस्य निर्देशानुसारं धरापृष्टे कालयापनं कृत्वा ईश्वरनिध्दिष्टकार्यं करोति तथा शास्त्रादिं विरचयति। जीवन्मुक्तपुरुषः देहावसानादनन्तरं परामुक्तिं चरममुक्तिं च प्राप्यते। इमं मुक्तिं विदेहकैवल्यमिति उच्यते। "केशवमिश्रप्रणीते गौतमीयसूत्रप्रकाशे अपवर्गविमर्शः" इत्यस्मिन् शोधसारे अस्य ग्रन्थस्य प्रयोजनम्, मोक्षस्य स्वरूपम्, अयं केन रूपेण मानवानां कृते सहायकं भवति, मोक्षप्राप्तये कानि उपायानि सन्ति इत्यादिविषयाः च प्रतिपाद्यते। अयं विषयः अनुसन्धातृणां कृते न्यायानुसन्धानक्षेत्रे सहायकं भवतीति आशास्यते।
